|
|
 |
 |
|
|
४ विराटपर्व.jpg)
॥ श्रीः ॥
4.56. अध्यायः 056
Mahabharata - Virata Parva - Chapter Topics
अर्जुनेनोत्तरंप्रति द्रोणकर्णादिरथानामसाधारणध्वजचिह्नप्रदर्शनपूर्वकं तत्तन्नामनिर्देशेन तत्तत्पराक्रमवर्णनम् ॥ 1 ॥
Mahabharata - Virata Parva - Chapter Text
वैशम्पायन उवाच। 4-56-0x(3227)(30647)
ततस्त्रीणि सहस्राणि रथानां च धनुष्मताम्।
घोराणि कुरुवीराणां पर्यकीर्यन्त भारत ॥ 4-56-1(30648)
कर्णो रथसहस्रेण प्रत्यगृह्णाद्धनञ्जयम्।
भीष्मः शान्तनवो धीमान्सहस्रेण पुरस्कृतः ॥ 4-56-2(30649)
तथा रथसहस्रेण भ्रातृभिः परिवारितः।
पश्चाद्दुर्योधनोऽतिष्ठद्यशसा च श्रिया ज्वलन् ॥ 4-56-3(30650)
अतिष्ठन्निवकाशेषु पादाताः सह वाजिभिः ।
भीमरूपाश्च मातङ्गास्तोमराङ्कुशचोदिताः ॥ 4-56-4(30651)
तानि दृष्ट्वा ह्यनीकानि विततानि महात्मनाम् ।
वैराटिमुत्तरं तं तु प्रत्यभाषत पाण्डवः ॥ 4-56-5(30652)
जाम्बूनदमयी वेदी ध्वजाग्रे यस्य दृश्यते।
शोणाश्चाश्वा रथे युक्ता द्रोण एष प्रकाशते ॥ 4-56-6(30653)
आचार्यो निपुणो धीमान्ब्रह्मविच्छूरसत्तमः।
आहवे चाप्रतिद्वन्द्वो दूरपाती महारथः ॥ 4-56-7(30654)
सुप्रसन्नो महावीरः कुरुष्वैनं प्रदक्षिणम्।
अत्रैव चाविरोधेन एष धर्मः सनातनः ॥ 4-56-8(30655)
यदि मे प्रहरेद्द्रोणः शरीरे मे प्रहृष्यतः ।
ततोऽस्मिन्प्रहरिष्यामि नान्यथा बुद्धिरस्ति मे ॥ 4-56-9(30656)
भारताचार्यमुख्येन ब्राह्मणेन महात्मना ।
तेन मे युध्यमानस्य मन्दं वाहय सारथे ॥ 4-56-10(30657)
ध्वजाग्रे सिंहलाङ्गूलो दिक्षु सर्वासु शोभते ।
भारताचार्यपुत्रस्तु सोऽश्वत्थामा विराजते ॥ 4-56-11(30658)
ध्वजाग्रं दृश्यते यत्र बालसूर्यसमप्रभम् ।
दुर्जयः सर्वसैन्यानां देवैरपि सवासवैः ।
तेन मे युध्यमानस्य मन्दं वाहय सारथे ॥ 4-56-12(30659)
ध्वजाग्रे गोवृषो यस्य काञ्चनोऽभिविराजते ।
आचार्यवरमुख्यस्तु कृप एष महारथः ॥ 4-56-13(30660)
द्रोणेन च समो वीर्ये पितुर्मे परमः सखा।
तेन मे युध्यमानस्य मन्दं वाहय सारथे ॥ 4-56-14(30661)
यस्य काञ्चनकम्बूभिर्हस्तिकक्ष्यापरिष्कृतः।
ध्वजः प्रकाशते दूराद्रथे विद्युद्गणोपमः ॥ 4-56-15(30662)
एष वैकर्तनः कर्णः प्रतिमानं धनुष्मताम्।
दृढवैरी सदाऽस्माकं नित्यं कटुकभाषणः ॥ 4-56-16(30663)
यस्याश्रयबलादेव धार्तराष्ट्रः ससौबलः ।
अस्मान्निरस्य राज्याच्च पुनरद्यापि योत्स्यति ॥ 4-56-17(30664)
एष वै स्पर्धते नित्यं मया सह सुदुर्जयः ।
जामदग्न्यस्य रामस्य शिष्यो ह्येष महारथः ॥ 4-56-18(30665)
सर्वास्त्रकुशलः कर्णः सर्वशस्त्रभृतांवरः ।
युद्धेऽप्रतिमवीर्यश्च दृढवेधी पराक्रमी ॥ 4-56-19(30666)
अद्याहं युद्धमेतेन करिष्ये सूतबन्धुना।
द्रष्टा त्वमावयोर्युद्धं बलिवासवयोरिव ॥ 4-56-20(30667)
महारथेन शूरेण सूतपुत्रेण धन्विना।
तेन मे युध्यमानस्य शीघ्रं वाहय सारथे ॥ 4-56-21(30668)
यस्य चैव रथोपस्थे नागो मणिमयो ध्वजः ।
एष दुर्योधनस्तत्र कौरवो यशसा वृतः ॥ 4-56-22(30669)
लब्धलक्षो दृढं वेधी लघुहस्तः प्रतापवान् ।
तेन मे युध्यमानस्य शीघ्रं वाहय सारथे ॥ 4-56-23(30670)
यस्तु श्वेतावदातेन पञ्चतालेन केतुना ।
वैडूर्यमयदण्डेन तालवृक्षेण राजते ॥ 4-56-24(30671)
हस्तावापी बृहद्धन्वा सेनां तिष्ठति हर्षयन् ।
रामेण जामदग्न्येन द्वैरथेनाजितः पुरा ॥ 4-56-25(30672)
शीघ्रश्च लगुवेधी च लघुहस्तः प्रतापवान् ।
एष शान्तनवो भीष्मः सर्वेषां नः पितामहः ॥ 4-56-26(30673)
ककुदः सर्वसैन्यानां सर्वशस्त्रभृतांवरः ।
जयश्रियाऽवबद्धस्तु सुयोधनवशानुगः ।
पश्चादेष प्रयातव्यो न मे विघ्नकरो भवेत् ॥ 4-56-27(30674)
इत्येतांस्त्वरितः पार्थः कथयित्वा तु चोत्तरे।
रूपतश्चिह्नतश्चैव युद्धाय त्वरते पुनः ॥ ॥ 4-56-28(30675)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि षट्पञ्चाशोऽध्यायः ॥ 56 ॥
Mahabharata - Virata Parva - Chapter Footnotes
4-56-9 शरीरे प्रहरिष्यतः इति नान्यया युद्धमस्ति मे इति चo धo पाठः ॥ 9 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|